|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.168. अध्यायः 168
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
सनत्कुमारेण रुद्रंप्रति अव्यक्तादितत्वानां तारतम्यकथनपूर्वकं तत्सृष्टिलयादिकथनम्॥ 1 ॥ तथा एतज्ज्ञानस्य संसारतारकत्वोक्तिः॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`सनत्कुमार उवाच।
इन्द्रियेभ्यो मनः पूर्वमहङ्कारस्ततः परम्।
अहङ्कारात्परा बुद्धिर्बुद्धेः परतरं महत्॥ 13-168-1(88152)
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
एतावदेतत्सांख्यानां दर्शनं देवसत्तम॥ 13-168-2(88153)
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतानि पञ्च च।
मनस्तथा विशेषाश्च दश चैवेन्द्रियाणि च।
एतास्तत्वचतुर्विंशन्महापुरुषसम्मिताः॥ 13-168-3(88154)
बुद्ध्यामानेन देवेश चेतनेन महात्मना।
संयोगमेतयोर्नित्यमाहुरव्यक्तपुंसयोः॥ 13-168-4(88155)
एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः।
तमःसंज्ञितमेतद्धि प्रवदन्ति त्रिशूलधृक्॥ 13-168-5(88156)
समुत्पाट्य यथाव्यक्ताज्जीवा यान्ति पुनःपुनः।
आदिरेष महानात्मा गुणानामिति नः प्रभो॥ 13-168-6(88157)
गुणस्थत्वाद्गुणं चैनमाहुरव्यक्तलक्षणम्।
एतेनाध्युषितो व्यक्तस्त्रिगुणं चेतयत्युत॥ 13-168-7(88158)
अचेतनः प्रकृत्येषु न चान्यमनुबुध्यते।
बुध्यमानो ह्यहंकारो नित्यं मानाप्रबोधनात्॥ 13-168-8(88159)
विमलस्व विशुद्धस्य नीरुजस्य महात्मनः।
विमलोदरशीलः स्याद्बुध्यमानाप्रबुद्धयोः॥ 13-168-9(88160)
द्रष्टा भवत्यभोक्ता च सत्वमूर्तिश्च निर्गुणः।
बुध्यमानाप्रबुद्धाभ्यामन्य एव तु निर्गुणः॥ 13-168-10(88161)
उपेक्षकः शुचिस्ताभ्यामुभाभ्यामयुतस्तथा।
बुध्यमानो न बुध्येत बुद्धमेवं सनातनम्॥ 13-168-11(88162)
स एव बुद्धेरव्यक्तस्वभावत्वादचेतनः।
सोहमेव न मेऽन्योस्ति य एवमभिमन्यते॥ 13-168-12(88163)
न मन्यते ममान्योस्ति येन चेतोस्म्यचेतनः।
एवमेवाभिमन्येत बुध्यमानोप्यनात्मवान्॥ 13-168-13(88164)
अहमेव न मेऽन्योस्ति न प्रबुद्धवशानुगः।
अव्यक्तस्थो गुणानेष नित्यमेवाभिमन्यते॥ 13-168-14(88165)
तेनाधिष्ठिततत्वज्ञैर्महद्भिरभिधीयते।
अहङ्कारेण संयुक्तस्ततस्ददभिमन्यते॥ 13-168-15(88166)
क्षेत्रं प्रविश्य दुर्बुद्धिर्बुद्ध्यमानो ह्यनात्मवान्।
अहमेव सृजत्यन्यद्द्वितीयं लोकसारथिः॥ 13-168-16(88167)
सर्वाभावैरहङ्कारैस्तृतीयं सर्गसंज्ञितम्।
ततो भूतान्यहङ्कारमहङ्कारो मनोऽसृजत्॥ 13-168-17(88168)
सर्वस्नोतस्यभिमुखं सम्प्रावर्तत बुद्धिमान्।
तथैव यज्ञे भूतेषु विषयार्थी पुनःपुनः।
इन्द्रियैः सह शूलाङ्क पञ्च पञ्चभिरेव च॥ 13-168-18(88169)
मनो वेद न चात्मानमङ्कारं प्रजापतिः।
न वेद वाप्यहङ्कारो बुद्धिं बुद्धिमतांवर॥ 13-168-19(88170)
एवमेते महाभाग नेतरे नयवादिनः।
अहङ्कारेण संयुक्तः स्रोतस्यभिमुखः सदा॥ 13-168-20(88171)
एवमेष विकारात्मा महापुरुषसञ्ज्ञकः।
प्रतनोति जगत्कृत्स्नं पुनराददते सकृत्॥ 13-168-21(88172)
ससंज्ञत्वाज्जगत्कृत्स्नमव्यक्तस्य हृदि स्थितम्।
संविशद्रजनीं कृत्स्नां निशान्ते दिवसागमे॥ 13-168-22(88173)
पुनरात्मा विजयते बहवो निर्गुणास्तथा।
अज्ञानेन समायुक्तः सोव्यक्तेन तमोत्मना॥ 13-168-23(88174)
यदि ह्येषो नु मन्येत ममास्ति परतो वरः।
स पुनः पुनरात्मानं न कुर्यादाक्षिपेत च॥ 13-168-24(88175)
एतमव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान्।
पञ्चविंशं महादेव महापुरुषवैकृतम्॥ 13-168-25(88176)
प्रबुद्धौ बुद्धवानेतत्सृजमानमबुद्धवान्।
गुणान्पुनश्च तानेव सोत्मनात्मनि निक्षिपेत्॥ 13-168-26(88177)
अव्यक्तस्य वशीभूतो योऽज्ञानस्य तमोत्मनः।
बुध्यमानो ह्यबुद्धस्य बुद्धस्तदनुभुज्यते॥ 13-168-27(88178)
उपेक्षकः शुचिर्व्यग्रः सोलिङ्गः सोव्रणोऽमलः।
षड्विंशो भगवानास्ते बुद्धः शुद्धो निरामयः॥ 13-168-28(88179)
अव्यक्तादिविशेषान्तमेतद्वैद्या वदन्त्युत।
एतैरेव विहीनं तु केचिदाहुर्मनीषिणः॥ 13-168-29(88180)
निस्तत्वं बुध्यमानास्तु केचिदाहुर्महामते।
केचिदाहुर्महात्मानस्तत्वसंज्ञितमेव तु॥ 13-168-30(88181)
तत्वस्य श्रवणादेनं तत्वमेवं वदन्ति वै।
सत्वसंश्रयणाच्चैव सत्ववन्तं महेश्वर॥ 13-168-31(88182)
एवमेष विकारात्मा बुध्यमानो महाभुज।
अव्यक्तो भवते व्यक्तौ सत्वंसत्वं तथा गुणौ।
विद्या च भवते विद्या भवेत्तु ग्रहसंज्ञितम्॥ 13-168-32(88183)
य एवमनुबुद्ध्यन्ते योगसाङ्ख्याश्च तत्वतः।
तेऽव्यक्तं शङ्करागाढं मुञ्चन्ते शास्त्रबुद्धयः॥ 13-168-33(88184)
तेषामेतत्तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम्।
बुद्धिर्विस्तीर्यते सर्वं तैलबिन्दुरिवाम्भसि॥ 13-168-34(88185)
विद्या तु सर्वविद्यानामवबोध इति स्मृतः।
येन विद्यामविद्यां च विन्दन्ति यतिसत्तमाः॥ 13-168-35(88186)
सैषा त्रयी परा विद्या चतुर्थ्यान्वीक्षिकी स्मृता।
यां बुद्ध्यमानो बुद्ध्येत बुद्ध्यात्मनि समं गतः॥ 13-168-36(88187)
अप्रबुद्धमथाव्यक्तमविद्यासंज्ञिकं स्मृतम्।
विमोहितं तु शोकेन केवलेन समन्वितम्।
एतद्बुद्ध्या भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम्॥ 13-168-37(88188)
ये त्वेतन्नावबुद्ध्यन्ते ते प्रबुद्धवशानुगाः।
ते पुनःपुनरव्यक्ताज्जनिष्यन्त्यबुधांत्मनः॥ 13-168-38(88189)
तमेव तुलयिष्यन्ति अबुद्धिवशवर्तिनः।
ये चाप्यन्ये तन्मनसस्तेप्येतत्फलभागिनः॥ 13-168-39(88190)
विदित्वैनं न शोचन्ति योगोपेतार्थदर्शिनः।
स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम्॥ 13-168-40(88191)
अज्ञानबन्धनान्मुक्तास्तीर्णाः संसारबन्धनात्।
अज्ञानसागरं घोरमगाधं तमसंज्ञकम्।
यत्र मज्जन्ति भूतानि पुनःपुनररिंदम्॥ 13-168-41(88192)
एषा विद्या तथाऽविद्या कथिता ते मयाऽर्थतः।
यस्मिन्देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च॥ 13-168-42(88193)
तथा चैकत्वनानात्वमक्षरं क्षरमेव च।
निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते॥ 13-168-43(88194)
बुद्ध्यमानाप्रबुद्धाभ्यामबुद्धस्य प्रपञ्चनम्।
भूय एव निबोध त्वं देवानां देवसत्तम॥ 13-168-44(88195)
यच्च किञ्च श्रुतं न स्याद्दृष्टं चैव न किञ्चन।
तच्च ते सम्प्रवक्ष्यामि एकाग्रः शृणु तत्परः॥' ॥ 13-168-45(88196)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः॥ 168 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|